Search This Blog

Consultation Charges

Consultation Charges
Services and Charges

Sunday, January 31, 2010

अपराधक्षमापणस्तोत्रम्

अपराधक्षमापणस्तोत्रम् .

ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् .
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः .. १..
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके .
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु .. २..
अज्ञानाद्विस्मृतेर्भ्रोन्त्या यन्न्यूनमधिकं कृतम् .
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि .. ३..
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे .
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि .. ४..
सर्वरूपमयी देवी सर्वं देवीमयं जगत् .
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् .. ५..
यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत् .
पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि .. ६..
यदत्र पाठे जगदम्बिके मया
विसर्गबिन्द्वक्षरहीनमीरितम् .
तदस्तु सम्पूर्णतमं प्रसादतः
सङ्कल्पसिद्धिश्व सदैव जायताम् .. ७..
यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं
भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्त्तमव्यक्त्तमम्ब .
मोहादज्ञानतो वा पठितमपठितं साम्प्रतं ते स्तवेऽस्मिन्
तत् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात् प्रसीद .. ८..
प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले .
प्रसादं कुरु मे देवि दुर्गे देवि नमोऽस्तु ते .. ९..
.. इति अपराधक्षमापणस्तोत्रं समाप्तम्..